(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.80. अध्यायः 080
Mahabharata - Vana Parva - Chapter Topics
पलस्त्येन भीष्म्प्रतिपुष्करादितीर्थमहिमानुवर्णनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

पुलस्त्य उवाच। 3-80-0x(1983)(18947)
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च।
सत्येन च महाभाग तुष्टोस्मि तव सुव्रत ॥ 3-80-1(18948)
यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि ॥ 3-80-2(18949)
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥ 3-80-3(18950)
भीष्म उवाच। 3-80-4x(1984)
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ 3-80-4(18951)
यदि त्वहमनुग्राह्यस्तव धर्मभृतांवर।
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि ॥ 3-80-5(18952)
अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति ॥ 3-80-6(18953)
प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तषोधन ॥ 3-80-7(18954)
पुलस्त्य उवाच। 3-80-8x(1985)
हन्त तेऽहंप्रवक्ष्यामि यदृषीणां परायणम्।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ 3-80-8(18955)
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ 3-80-9(18956)
प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित्।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ 3-80-10(18957)
अकल्कको निरारम्भो लध्वाहारो जितेन्द्रियः।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते ॥ 3-80-11(18958)
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः।
आत्मोपमश्च भूतेषु स तीर्धफलमश्नुते ॥ 3-80-12(18959)
ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम्।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ 3-80-13(18960)
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ 3-80-14(18961)
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित्।
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ 3-80-15(18962)
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधांवर ॥ 3-80-16(18963)
ऋषीणां परमं गुह्यमिदं भरतसत्तम।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ 3-80-17(18964)
अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ 3-80-18(18965)
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ 3-80-19(18966)
सर्वतीर्थेषु राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्।
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ 3-80-20(18967)
दशकोटिसहस्राणि तीर्थानां वै महामते।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥ 3-80-21(18968)
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो ॥ 3-80-22(18969)
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा।
`तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः'।
दिव्ययोगा महाराज पुण्येन महताऽन्विताः ॥ 3-80-23(18970)
मनसाभ्येतुकामस्य पुष्कराणि मनस्विनः।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ 3-80-24(18971)
तस्मिंस्तीर्थे महाभागो नित्यमेव पितामहः।
उवास परमप्रीतो देवदानवसत्तमः ॥ 3-80-25(18972)
पुष्करेषु महाभाग देवाः सर्पिगणाः पुरा।
सिद्धिं समभिसंप्राप्ताः पुण्येन महताऽन्विताः ॥ 3-80-26(18973)
तत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत्।
सर्वपापविनिर्मुक्तो ब्रह्मलोके च पूज्यते ॥ 3-80-27(18974)
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः।
तेनासौ कर्मणा भीष्म प्रेत् यचेह च मोदते ॥ 3-80-28(18975)
शाकैर्मूलैः फलैर्वाऽपिचेन वर्तयते स्वयम्।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ 3-80-29(18976)
`अपि वाऽप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत्।
तेनापि पूजनेनाशु प्रेत्यानन्त्याय कल्पते' ॥ 3-80-30(18977)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम।
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ॥ 3-80-31(18978)
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम्।
`फलं तत्राक्षयं तेन लभते भरतर्षभ' ॥ 3-80-32(18979)
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः।
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ 3-80-33(18980)
जन्मप्रभृतियत्पापं स्त्रिया वा पुरुषस् वा।
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ 3-80-34(18981)
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः।
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ 3-80-35(18982)
उष्य द्वादशवर्षाणि पुष्करे नियतः शुचिः।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ॥ 3-80-36(18983)
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ 3-80-37(18984)
[त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च।
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् ॥] 3-80-38(18985)
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ 3-80-39(18986)
उष्य द्वादशरात्रं तु नियतो नियताशनः।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत् ॥ 3-80-40(18987)
जम्बूमार्गं समाक्श्यि देवर्षिपितृसेवितम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 3-80-41(18988)
तत्रोष्य रजनीः पञ्च कषष्ठकालक्षमी नरः।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥ 3-80-42(18989)
`तत्रगत्वा महाप्राज्ञः कुर्याच्छ्राद्धं दृढव्रतः।
वाजपेयमवाप्नोति दुष्कृतं चास्य नश्यति' ॥ 3-80-43(18990)
जम्बूमार्गादुपावृकत्यगच्छेत्स्थण्डिलकाश्रमम्।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति ॥ 3-80-44(18991)
आगस्त्यं सर आसाद्य पितृदेवार्चने रतः।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ 3-80-45(18992)
शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम्।
कण्वाश्रमं ततो गच्छेच्ध्रीजुष्टं लोकपूजितम् ॥ 3-80-46(18993)
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते ॥ 3-80-47(18994)
अर्चयुत्वा पितॄन्देवान्नियतो नियताशनः।
सर्वकामसमृद्धः स्याद्यज्ञस्य फलमश्नुते ॥ 3-80-48(18995)
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्।
हयमेधस्य यज्ञस्य फंल प्राप्नोति तत्र वै ॥ 3-80-49(18996)
महाकालं ततो गच्छेन्नियतो नियताशनः।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ 3-80-50(18997)
ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ 3-80-51(18998)
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्।
महादेवप्रसादाच्च गाणपत्यं च विन्दति ॥ 3-80-52(18999)
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः।
`राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् ॥' 3-80-53(19000)
नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम्।
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ॥ 3-80-54(19001)
दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ 3-80-55(19002)
चर्मण्वतीं समासाद्य नियतो नियताशनः।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत् ॥ 3-80-56(19003)
ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम्।
पृथिव्यां यत्रवै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ 3-80-57(19004)
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 3-80-58(19005)
पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः।
कपिलानां नरश्रेष्ठ शतस् फलमश्नुते ॥ 3-80-59(19006)
ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम्।
`तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम्' ॥ 3-80-60(19007)
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः।
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ॥ 3-80-61(19008)
तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ 3-80-62(19009)
ततो गत्वा सरस्वत्याः सागरस्य च संगमे।
गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ ॥ 3-80-63(19010)
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर।
प्रभासते यथा सोमः सोश्वमेधं च विन्दति ॥ 3-80-64(19011)
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत् ॥ 3-80-65(19012)
ततो द्वारवतीं गच्छेन्नियतो नियताशनः।
पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ 3-80-66(19013)
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥ 3-80-67(19014)
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन।
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ ॥ 3-80-68(19015)
सागरस्य च सिन्धोश्च संगमं प्राप्य दुर्लभम्।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ 3-80-69(19016)
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा ॥ 3-80-70(19017)
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ 3-80-71(19018)
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ 3-80-72(19019)
शमीति नाम्ना विख्यातं सर्वपापप्रणाशनम्।
तत्रब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ 3-80-73(19020)
तत्रस्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम्।
जन्मप्रभृतियत्पापं तत्स्नातस्य प्रणश्यति ॥ 3-80-74(19021)
शमी चात्रनरश्रेष्ठ सर्वदेवैरभिष्टुता।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ 3-80-75(19022)
गत्वा यत्रमहाप्राज्ञ विष्णुना प्रभविष्णुना।
पुरा शौचं कृतंराजन्हत्वा दैवतकण्टकान् ॥ 3-80-76(19023)
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्।
गमनादेवतस्यां हि हयमेधफलं लभेत् ॥ 3-80-77(19024)
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ 3-80-78(19025)
तीर्थे चात्र सर पुण्यं वसूनां भरतर्षभ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतोभवेत् ॥ 3-80-79(19026)
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥ 3-80-80(19027)
ब्रह्मतीर्थं समासाद्य शुचिः शीलसमन्वितः।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् ॥ 3-80-81(19028)
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात् ॥ 3-80-82(19029)
रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम्।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा ॥ 3-80-83(19030)
अथ पञ्चनदं गत्वा नियतो नियताशनः।
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ 3-80-84(19031)
ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम्।
तत्रस्नात्वा न योन्यां वै भवेद्भरतसत्तम ॥ 3-80-85(19032)
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः ॥ 3-80-86(19033)
गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ 3-80-87(19034)
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्।
अद्यापि यत्रदृश्यन्ते मत्स्याः सौवर्णराजताः ॥ 3-80-88(19035)
तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात्।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ 3-80-89(19036)
वितस्तां च समासाद्य संतर्प्य पितृदेवताः।
नरः फलमवाप्नोति वाजपेयस्य भारत ॥ 3-80-90(19037)
काश्मीरष्वेव नागस्य भवनं तक्षकस्य च।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ 3-80-91(19038)
तत्रस्नात्वा नरो नूनं वाजपेयमवाप्नुयात्।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ 3-80-92(19039)
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥ 3-80-93(19040)
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत्।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ 3-80-94(19041)
ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः ॥ 3-80-95(19042)
राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् ॥ 3-80-96(19043)
विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् ॥ 3-80-97(19044)
ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः।
यथाभिलषितानन्यान्कामान्दत्वा महीपते ॥ 3-80-98(19045)
तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत ॥ 3-80-99(19046)
गवां शतसहस्रेण राजसूयशतेन च।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः ॥ 3-80-100(19047)
ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत्।
अर्चयित्वामहादेवमश्वमेधफलं लभेत्। 3-80-101(19048)
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः।
एकरात्रोपितो राजन्नग्निष्टोमफलं लभेत् ॥ 3-80-102(19049)
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुतम्।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ 3-80-103(19050)
त्रिशूलपाणएः स्थानं च त्रिषु लोकेषु विश्रुतम्।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ 3-80-104(19051)
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ 3-80-105(19052)
कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम्।
तत्रस्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत ॥ 3-80-106(19053)
यजनं याजनं चैवतथैव ब्रह्मबालुकम्।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः ॥ 3-80-107(19054)
अर्धयोजनविस्तारां पञ्चयोजनमायताम्।
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ 3-80-108(19055)
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्।
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः।
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः ॥ 3-80-109(19056)
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥ 3-80-110(19057)
ततो विनशनं गच्छेन्नियतो नियताशनः।
गच्छत्यन्तर्हिता यत्रमेरुपृष्ठे सरस्वती ॥ 3-80-111(19058)
चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते।
`तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्वदा।'
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥ 3-80-112(19059)
शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत्।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ॥ 3-80-113(19060)
शशयानं च राजेन्द्रतीर्थमासाद्य दुर्लभम्।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ 3-80-114(19061)
सरस्वत्यां महाराज शतं संवत्सरं च ते।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥ 3-80-115(19062)
तत्रस्नात्वा नरव्याघ्र द्योतते शशिवत्सदा।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ 3-80-116(19063)
कुमारकोटीमासाद्य नियतः कुरुनन्दन।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 3-80-117(19064)
गवामयुतमाप्नोति कुलं चैव समुद्धरेत्।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥ 3-80-118(19065)
पुरा यत्र महाराज मुनिकोटिः समागता।
हर्षेण महताऽऽविष्टा रुद्रदर्शनकाङ्क्षया ॥ 3-80-119(19066)
अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम्।
एवं संप्रस्थिता राजन्नृषयः किल भारत ॥ 3-80-120(19067)
ततो योगीश्वरेणापि योगमास्थाय भूपते।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ 3-80-121(19068)
स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतः स्थिता।
मया पूर्वतरं दृष्ट इतिते मेनिरे पृथक् ॥ 3-80-122(19069)
तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम्।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥ 3-80-123(19070)
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति।
तत्रस्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ 3-80-124(19071)
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्।
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥ 3-80-125(19072)
सरस्वत्या महापुण्यं केशवं समुपासते।
यत्रब्रह्माहयो देवा ऋषयश्च तपोधनाः ॥ 3-80-126(19073)
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्।
तत्रस्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम्।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ 3-80-127(19074)
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप।
तत्रावसानमासाद्य गोसहस्रफलं लभेत् । 3-80-128(19075)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-80-10 अपावृत्तो निवृत्तः। संतुष्टो नियतः शुचिरिति क. ध. पाठः ॥ 3-80-11 अकल्ककः दम्भादिहीनः ॥ 3-80-20 नृलोके देवदेवस्य तीर्थमिति झ. पाठः ॥ 3-80-27 पितृदेवार्चने रतः इति झ. पाठः ॥ 3-80-35 उपस्पृष्टं स्नातं भवेत् ॥ 3-80-33 उष्य वासं कृत्वा ॥ 3-80-36 पुण्यं स्थानमुमापतेरिति ध. पाठः ॥ 3-80-51 पिकतीर्थमिति ध. पाठः ॥ 3-80-59 तस्मिंस्तीर्थे नरः स्नात्वा पुण्यलक्षणलक्षितः इति ध. पाठः ॥ 3-80-67 दमीतीति प्रमीतीति क्रमेण क. ध. पाठः ॥ 3-80-73 भद्रतुङ्गं समासाद्येति झ. पाठः। अवाप्नोति सुकृती विरजानर इति ध. पाठः ॥ 3-80-81 श्रीकुण्डं तुं समासाद्येति झ. पाठः ॥ 3-80-93 ततो गच्छेत बडबामिति झ. पाठः ॥ 3-80-101 भद्रपादमुपविशेदिति ध. पाठः ॥ 3-80-107 पुष्पजायामुपस्पृश्येति ध. पाठः ॥ 3-80-109 दक्षिणाभिर्यतव्रता इति क. ध. पाठः ॥ 3-80-112 चमसे चमसोद्भेदे इति ध. पाठः ॥ 3-80-114 शतह्रदं च राजेन्द्रेति क. ध.पाठः ॥ 3-80-118 गवां मेधमवाप्नोतीति क. ध. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.